आसन् पुरा भारतभूमिभागे
श्यामेन वर्णेन विशालहस्तिनः
सुखेन सौख्येन स्नेहेन नित्यं
यूथेन ते सर्वे वने चरन्तः ।
तेष्वेका चासीत् करिणी श्वेतवर्णा
स्वेच्छाभ्रमणेन दलात् सा वियुक्ता
स्वभावे सुशीला विवेके विचित्रा
उदारदृष्ट्या सा दयागुणयुक्ता ।
कदाहुतोऽहं नरोवरेण
सम्मानितोऽपि अत्युत्सुकेन
प्राप्तैषा हस्तिनी अतिशोभना च
विचित्रभंग्या सा दयार्द्रचित्ता।
विनयेन पृष्टवानहं किमेतत् भवान्
शोभनहृदयैषा इति व्याहृतं तेन ।
अभिनन्दितोऽहं नतमस्तकया करिण्या
प्रत्यभिवादितापि मया तदनुगुणेन ।
महती सा आसीत् रुचिरा सुशीला
स्वभावे मधुरा भावग्राहिणी च ।
उपविश्य तदुपरि महानहं जातः
गर्वेण मानेन परिवर्धितश्च
देशे वा प्रदेशे भारते भ्रमन्तौ
उत्फुल्लितौ गाम्भीर्यभावं बहन्तौ ।
भावाभिभावं नौ परिलक्ष्य वनिताः
लज्जां विहाय निपतन्ति विह्वलाः ।
यतः सा आसीत् सर्वथा हि भिन्ना
स्वसंगीते तु सदैव निमग्ना ।
पश्यसि यदि मानचित्रं विश्वस्य
भारतस्य नद्यः नानुभूयन्ते किम्
लब्ध्वा च्युतरसं प्रभूतं मधुरं
पूतगंगातीरे कदा वयं विछिन्नाः ।
असनवसनशयनमुझित्वा
दिवारात्रमहं क्व गतेति प्रमत्तः
पुनः केन उक्तं मदीया बान्धवी
स्वसहोदरेषु कुत्र वा विलीना ।
रोषेण दुःखेन यदाहं चिन्तितः
पुनरेको गजः भारते संषप्राप्तः
सालङ्कृतः यष्टिदण्डसमानः
एषः पुनः गजदन्तविनिर्मितः ।
श्रुयते यत् सप्तहस्तिनां गृहे वासः
सौभाग्यं भजते गृहस्य गृहिणश्च ।
न कामयेऽहं तादृशं सौभाग्यम्
दन्तकृते किं गजसंहरणम्।
अरण्ये हस्तिनः सन्तु
तृप्तोऽहम् काष्ठमूर्त्यैव॥
|