बहुकालपूर्वं हि
विशालकायाः श्यामवर्णा वनगजाः
भारतस्य कान्तारेषु
स्वच्छन्दतया विचरणं चक्रुः ।
तेषां वृन्दे दिष्ट्यैव
एक आसीत् श्वेतगजः ।
तस्य नेत्रे उदारे आसतुः,
शान्तः स्वभावः, विवेकशीलः, कुलीनः
स्वस्य सर्वबान्धवेषु
भिन्न आसीत् तस्य परिचयः ।
इयं कथा तस्य युगस्यास्ति यदा -
मां सभाजयितुं
भारतदेशस्य राज्ञा
मह्यं ददौ उपायनरूपेण एको गजः ।
अहमपृच्छम् कस्मात् मह्यं गजः?
स प्रत्युत्तरत्, ‘यतो हि गजजातिः उदारा वर्तते । ’ इति
गजो नम्रो भूत्वा अभिन्दितवान् माम्
अहमपि प्रणतः, यतो हि श्वेतवर्णो हस्तिः,
वस्तुतः सा हस्तिन्यासीत्, आसन्
मम शब्दाः शान्तिमयाः सद्भावयुक्ताश्च ।
गजारूढोऽहं भारते
भ्रमणकाले प्रभावको जातः
अगच्छाव कति कति स्थलेषु न जाने,
प्रतिक्षणं नौ सुखदुःखयोरद्वैतमासीत्
तदनन्तरं गीतमग्नावावाम्
कस्या अपि छदेः नीचैरावां गच्छन्तौ आस्ताम्,
तदैव छदेः अकूर्दन्त स्त्रियः
भित्वा लज्जानां भित्तिसङ्घातम्,
सत्यमेव श्वेतवर्णो हस्तिः
अधिकविभ्रमवान् आसीत् ।
भवद्भिर्दृष्टमेव विश्वस्य मानचित्रम्
भवद्भिः ज्ञातमेव स्यात्
यद् भारते प्रवहति पतितपावनी गङ्गेति ।
आम्रफलानि आस्वादयन्तौ
अहञ्च श्वेतवर्णगजश्च
गङ्गातीरे व्यस्मरतान् सर्वमपि ।
भ्रमन्नासम् क्षुत्पिपासानिद्रास्वास्थ्यचिन्ता विस्मृत्य ।
तदा केनापि मह्यं निवेदितं यत्
तव श्वेतगजः पुनरपि गतवान् स्ववृन्दमिति
अहं तेन विना जातो निर्वेदयुक्त उदासीनः ।
पुनः एकस्मिन् काले भारतस्य राजा
उपायनीकृतवान् मे श्वेतगजं
किन्तु शृङ्गाराचारयष्टिरूपेण
या निर्मिताऽऽसीत् तस्य हस्तिदन्तेनैव ।
श्रूयते यत् शुभचिह्नमस्ति
गृहे सप्तगजानां निवास इति ।
निधानिकायां स्थिता रक्षन्ति ते नो दुर्भाग्यात्
किन्तु श्वेतवर्णो गजो विचरेत् स्ववृन्देन तदेवास्ति वरम्
स हस्तिदन्तवस्तु भूत्वा मम कृते सौभाग्यं न आनयेत्
तथापि प्रसन्नता मे .... ।।
|